Tuesday, April 19, 2011

1-17 | शिशुपालवधम्

विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान् परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ।।

पदच्छेदः is as follows:

विधाय तस्य अपचितिम् प्रसेदुषः प्रकामम् अप्रीयत यज्वनाम् प्रियः ग्रहीतुम् आर्यान् परिचर्यया मुहर् महानुभावाः हि नितान्तम् अर्थिनः

आकाङ्क्षा is as follows:

Sentence #1:
सः (by अध्याहारम्) अप्रीयत ।
कथम्? प्रकामम्
किं कृत्वा? विधाय
काम्? अपचितिम्
कस्य? तस्य
तस्य कथं भूतस्य? प्रसेदुषः
स कथं भूतः? प्रियः
केषाम्? यज्वनाम

Sentence #2:
महानुभावा (भवन्ति) ।
कथं भूताः? अर्थिनः
कथम्? नितान्तम् (very much, in a high degree)
पुनः कथम्? मुहुः
किं कर्तुम्? ग्रहीतुम्
कया? सपर्यया
कान्? आर्यान्

Rearrange words so that the meaning is clearer:
यज्वनां प्रियः (सः) प्रसेदुषः तस्य अपचितिं विधाय प्रकामम् अप्रीयत ।
महानुभावाः आर्यान् परिचर्यया ग्रहीतुम् मुहुः नितान्तम् अर्थिनः हि (भवन्ति) ।।

शब्दानां विचारः:

विधाय is अव्ययम्

तस्य तयोः तेषाम्
तच्छब्दः दकारान्तः पुँल्लिङ्गः षष्ठ्येकवचनान्तः

अपचितिम् अपचिती अपचितीः (honoring, reverence)
अपचितिशब्दः इकारान्तस्त्रीलिङ्गः द्वितीयैकवचनान्तः

प्रसेदुषः प्रसेदुषोः प्रसेदुषाम्
प्रसेदिवस्शब्दः सकारान्तः पुँल्लिङ्गः षष्ठ्येकवचनान्तः
निषेदिवान् was discussed in the previous post and is declined like विद्वस्

प्रकामम् is अव्ययम्

अप्रीयत अप्रीयेताम् अप्रीयन्त
अप्रीयथाः अप्रीयेथाम् अप्रीयध्वम्
अप्रीये अप्रीयावहि अप्रीयामहि
"प्रीङ् तर्पणे" इति धातोः कर्तरि लङि प्रथमपुरुषैकवचनम्

यज्वनः यज्वनोः यज्वनाम्
यज्वन्शब्दः नकारान्तः पुँल्लिङ्गः षष्ठीबहुवचनान्तः
For राजन्शब्दः the रूपाणि in षष्ठीविभक्तिः are as राज्ञः राज्ञोः राज्ञाम्। Here, by 6-4-134 अल्लोपोऽनः अकारालोपः happens. This लोपः is prevented in यज्वन्शब्दः due to 6-4-137 न संयोगाद्वमन्तात्‌। Similarly in the case of ब्रह्मन् there is no अल्लोपः
Interestingly, विष्णुः is referred to as यज्ञः in the तैत्तिरीय संहिता १-७-४ in the mantra "यज्ञो वै विष्णुः"

प्रियः प्रियौ प्रियाः
प्रियशब्दः अकारान्तः पुँल्लिङ्गः प्रथमैकवचनान्तः

ग्रहीतुम् is अव्ययम्

आर्यम् आर्यौ आर्यान्
आर्यशब्दः अकारान्तः पुँल्लिङ्गः द्वितीयाबहुवचनान्तः

परिचर्यया परिचर्याभ्याम् परिचर्याभिः
परिचर्याशब्दः आकारान्तस्त्रीलिङ्गः तृतीयैकवचनान्तः

मुहुर् is अव्ययम्

महान् अनुभावः येषां ते महानुभावाः
महानुभावः महानुभावौ महानुभावाः
महानुभावशब्दः अकारान्तः पुँल्लिङ्गः प्रथमाबहुवचनान्तः

हि is अव्ययम्

नितान्तम् is अव्ययम्

अर्थी अर्थिनौ अर्थिनः
अर्थिन्शब्दः नकारान्तः पुँल्लिङ्गः प्रथमाबहुवचनान्तः

On the PopPressed Radar Just a Day Trip from Bogotá John Vanderslice & the Magik*Magik Orchestra's "Overcoat" A History of Web Design Over the Past 20 Years

No comments:

Post a Comment